तारा ह्रदय स्त्रोत ( Tara Hriday Strotra )

 श्री तारा  ह्रदय स्त्रोत

तारा ह्रदय स्त्रोत ( Tara Hriday Strotra )


|| श्रीशिव उवाच ॥

शृणु पार्वति! भद्रं ते लोकानां हितकारकम् ।
कथ्यते सर्वदा गोप्यं ताराहृदयमुत्तमम् ॥१॥

॥ श्रीपार्वत्युवाच॥
स्तोत्रं कथं समुत्पन्नं कृतं केन पुरा प्रभो ।
कथ्यतां सर्वसद्वृत्तं कृपां कृत्वा ममोपरि॥

|| श्रीशिव उवाच ॥
रणे देवासुरे पूर्वं कृतमिन्द्रेण सुप्रिये । दुष्टशत्रुविनाशार्थं बलवृद्धियशस्करम् ॥

विनियोगः- ॐ अस्य श्रीमदुग्रताराहृदयस्तोत्र मंत्रस्य श्रीभैरव ऋषिः, अनुष्टुप् छन्दः, श्रीमदुग्रतारा देवता, स्त्री बीजं, हूं शक्तिः, नमः कीलकं सकल शत्रुविनाशार्थे पाठे विनियोगः।

हृदयादि षडंगन्यासः-  

    ॐ स्त्री हृदयाय नमः ।ॐ ह्रीं शिरसे स्वाहा। 
 ॐ हूं शिखायै वषट् ।  ॐ त्रीं कवचाय हुँ।
        ॐ ऐं नेत्रत्रयाय वौषट् । ॐ हंसः अस्त्राय फट्।

॥ ध्यानम् ॥

ॐ ध्यायेत्कोटिदिवाकर - द्युतिनिभां बालेन्दुयुक्छेखरांरक्तांगी
रसनां सुरक्तवसनां पूर्णेन्दुबिंबाननाम् ।
पाशं कमिहांकुशादि दधतीं दोर्भिश्चतुर्भिर्युतां.
नानाभूषणभूषितां भगवतीं तारांजगत्तारिणीम्॥
एवं ध्यात्वा शुभां तारां ततस्तु हृदयं पठेत् । तारिणी तत्त्वनिष्ठानां सर्वतत्त्वप्रकाशिका ॥
 रामाभिन्ना पराशक्तिः शत्रुनाशं करोतु मे । सर्वदा शत्रुसंरम्भे तारा मे कुरुतां जयम् ॥
स्त्रीं त्रीं स्वरूपिणी देवि त्रिषु लोकेषु विश्रुता । तव स्नेहान्मयाख्यातंनपैशुन्यं प्रकाश्यताम्॥
 शृणु देवि! तव स्नेहात्तारानामानि तत्त्वतः । वर्णयिष्यामि गुप्तानि दुर्लभानि जगत्त्रये ॥
 तारिणी तरला तारा त्रिरूपा तरणिप्रभा । सत्त्वरूपा महासाध्वी सर्वसज्जनपालिका ॥
 रमणीया रजोरूपा जगत्सृष्टिकरी परा । तमोरूपा महामाया घोररावा भयानका ॥
 कालरूपा कालिकाख्या जगद्विध्वंसकारिका । तत्त्वज्ञानपरानन्दा तत्त्वज्ञानप्रदाऽनघा ॥
 रक्तांगी रक्तवस्त्रा च रक्तमालाप्रशोभिता।सिद्धिलक्ष्मीश्च ब्रह्माणी महाकाली महालया ॥
 नामान्येतानि ये मर्त्या:सर्वदैकाग्रमानसाः । प्रपठन्ति प्रिये तेषां किंकरत्वं करोम्यहम् ॥
 तारां तारपरां देवीं तारकेश्वर पूजिताम् । तारिणी भवपाथोधेरुग्रतारां भजाम्यहम् ॥
स्त्रीं ह्रीं हूं त्री फण्मंत्रेण जलं जप्त्वाऽभिषेचयेत् । सर्वेरोगाः प्रणश्यन्ति सत्यं सत्यं वदाम्यहम् ॥
त्रीं स्वाहान्तैर्महामंत्रैश्चन्दनं साधयेत्ततः । तिलकं कुरुते प्राज्ञो लोको वश्यो भवेत्प्रिये ॥
 स्त्रीं ह्रीं त्रीं स्वाहा मंत्रेण श्मशानं भस्ममंत्रयेत्।शत्रोर्गृहे तत्प्रक्षेपाच्छनोर्मृत्युभविष्यति॥
ह्रीं हूं स्त्री फडंत मन्त्रैः पुष्पं संशोध्य सप्तधा । उच्चाटनं नयत्याशु रिपूणां नैव संशयः ॥
स्त्रीं त्रीं ह्रीं मन्त्रवर्येन अक्षताश्चाभिमंत्रिताः । तत्प्रतिक्षेपमात्रेण शीघ्रमायाति मानिनी ॥
(हंसः ॐ ह्रीं स्त्री हूं हंसः) इति मंत्रेण जप्तेन शोधितं कज्जलं प्रिये । तस्यैव तिलकं कृत्वा जगन्मोडं समाचरेत् ॥
ताराया हृदयं देवि सर्वपापप्रणाशनम् । वाजपेयादियज्ञानां कोटिकोटिगुणोत्तरम् ॥
गंगादिसर्वतीर्थानां फलं कोटिगुणात्स्मृतम् । महादुःखे महारोगे सङ्कटे प्राणसंशये ॥
महाभये महाघोरे - पठेत्स्तोत्रं - महोत्तमम् ।सत्यं सत्यं मयोक्तं ते पार्वति प्राणवल्लभे ॥
गोपनीयं प्रयत्नेन न प्रकाश्यमिदं क्वचित् ॥

॥ इति श्रीभैरवीतंत्रे शिवपार्वती संवादे श्रीमदुग्रताराहृदयं सम्पूर्णम् ॥






SHARE THIS
Previous Post
Next Post