Shri Ram Kavach ( राम कवच )


॥ रामकवचम् ॥

www.indiantantra.co.in



आजानुबाहमरविंददलायता-क्षमा जन्मशुद्धरसहा समुखप्रसादम।
श्यामं गृहीत-शरचापमुदाररूपं रामं सराममभिरामं मनुस्मरामि ।

 विनियोगः - अस्य श्रीरामकवचस्य अगस्त्य ऋषिःअन सीतालक्ष्मणोपेतः
           श्रीरामचन्द्रो देवता, वरप्रसादसिद्ध्यर्थे जपे विनियोगः
ध्यानम् –
नीलजीमूतसंकाशं विद्युद्वर्णवरावृतम् ।कोमलाङ्गं विशालाक्षं युवानमतिसुन्दरम् ॥१॥
सीतासौमित्रि सहितं जटामुकुटधारिणम् । सासितूण धनुर्वाणपाणिं दावनमर्दनम् ॥२॥
यदा चौरभये राजभये शत्रुभये तथा । ध्यात्वा रघुपति क्रुद्धं कालानल समप्रभम् ॥३॥
  चीरकृष्णाजिनधरं भस्मोद्धूलित विग्रहम् ।आकर्णाकृष्ट विशिखकोदण्डभुजमण्डितम् ॥४॥
रणे रिपून् रावणादींस्तीक्ष्णमार्गणवृष्टिभिः । संहरंतः - महावीरमुग्रमैन्द्रथस्थितम् ॥५॥
लक्ष्मणाधैर्महावीरैर्वृतंहनुमदादिभिः । सुग्रीवाद्यैर्महावीरैः शैलवृक्षक रोद्यतैः ॥६॥
 वेगात्कराल हुंकारैर्भुभुक्कारमहारवैः । नदद्भिः परिवादाद्भिः समरे रावणं प्रति ॥७॥
श्रीराम शत्रुसंघान्मे हन मर्दय खादय ।भूतप्रेतपिशाचादीन् श्रीरामाशु विनाशय ॥८॥
 एवं ध्यात्वा जपेद्रामकवचं सिद्धिदायकम् । सुतीक्ष्ण वज्रकवचं शृणु वक्ष्याम्यनुत्तमम् ॥९॥


॥ कवचम् ॥

श्रीरामः पातु मे मूर्ध्नि पूर्वे च रघुवंशज । दक्षिणे मे रघुवरः पश्चिमे पातु पावनः ॥१॥
उत्तरे मे रघुपतिर्भालं दशरथात्मजः । भुवोर्दूर्वादलश्यामस्तयोर्मध्ये जनार्दनः ॥२॥
श्रोत्रं मे पातु राजेन्द्रो दशो राजीव लोचनः । घ्राणं मे पातु राजर्षिर्गण्डो मे जानकीपतिः ॥३॥
 कर्णमूले खरध्वंसी भालं मे रघुवल्लभः । जिह्वां मे वाक्पतिः पातु दंतपंक्ती रघुत्तम ॥४॥
ओष्ठौ श्रीरामचन्द्रो मे मुखं पातु परात्परः । कंठं पातु जगद्वंद्यः स्कंधौ मे रावणांतकः ॥५॥
धनुर्वाणधरः पातु भुजौ मे बालिमर्दनः ।। सर्वाण्यंगुलिपर्वाणि हस्तौ मे राक्षसांतकः ॥६॥
वक्षो मे पातु काकुत्स्थः पातु मे हृदयं हरिः । स्तनौ सीतापतिः पातु पार्श्व मे जगदीश्वरः ॥७॥
 मध्य मे पातु लक्ष्मीशो नाभि मे रघुनायकः । कौसल्येयः कटी पातु पृष्ठं दुर्गतिनाशनः ॥८॥
गुह्यं पातु ऋषिकेशः सक्थिनी सत्यविक्रमः । ऊरू शार्ङ्गधरः पातु जानुनी हनुमत्प्रियः ॥९॥
जोपातु जगद्व्यापी पादौ मे ताटिकांतकः । सर्वाङ्गं पातु मे विष्णुः सर्वसंधीन नामयः ॥१०॥
ज्ञानेन्द्रियाणि प्राणादीन् पातु मे मधुसूदनः । पातु श्रीरामभद्रो मे शब्दादीन्विषयानपि ॥११॥
 द्विपदादीनि भूतानि मत्संबंधीनि यानि च । जामदग्नयमहादर्पदलनः पातु तानि मे ॥१२॥
सौमित्रपूर्वजः पातु वागादीनीन्द्रियाणि च । रोमांकुराण्यशेषाणि पातु सुग्रीवराज्यदः ॥१३॥
 वाड्मनोबुद्धयहंकारै ज्ञानार्ज्ञान कृतानि च ।जन्मान्तर कतानीह पापानि विविधानि च ॥१४॥
 तानि सर्वाणि दग्ध्वाशु हरदोण्डखण्डनः । पातु मां सर्वतो रामः शार्ङ्गबाणधरः सदा ॥१५॥
 इति श्रीरामचन्द्रस्य कवचं वज्रसंमितम् । गुह्याद्गृह्यतमं दिव्यं सुतीक्ष्ण मुनिसत्तम ॥१६॥
 यः पठेच्छृणुयाद्वापि श्रावयेद्वा समाहितः। स याति परमं स्थानं रामचन्द्र प्रसादतः ॥१७॥
 महापातकयुक्तो वा गोनो वा भ्रूणहा तथा । श्रीरामचन्द्र कवचपठनात् शुद्धिमाप्नुयात् ॥१८॥
ब्रह्महत्यादिभिः पापैर्मुच्यते नात्र संशयः । भो सुतीक्ष्ण यथा पृष्टं त्वया ममपुरा शुभम्
तथा श्रीरामकवचं मया ते विनिवेदितम् ॥१९॥

इति आनन्दरामायणे मनोहरकाण्डे सुतीक्ष्णागस्त्य संवादे श्रीरामकवचं समाप्त
www.indiantantra.co.in




SHARE THIS
Previous Post
Next Post